________________
870783864
4
'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेश भागे अत्र महत्प्रेक्षागृहमण्डपं विकुर्वति, कथम्भूतमित्याह- अनेकस्तम्भशतसन्निविष्टं तथा अभ्युद्गता - अत्युत्कटा सुकृता- सुष्ठु निष्पादिता वरवेदिकानि तोरणानि वररचिताः शालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुलिष्टा विशिष्टा लष्टसंस्थिताः - मनोज्ञ| संस्थानाः प्रशस्ताः - प्रशस्तवास्तुलक्षणोपेता वैयविमलस्तम्भा-बैर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तंवैडूर्यविमलस्तम्भं, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्ज्वलो बहुसमः - अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्ज्वलबहुसम सुविभक्तभूमिभागं, तथा इहामृगा - टकाः ऋषभतुरगनरमगरविहगाः प्रतीताः व्यालाः - स्वापदभुजगाः किंनरा - व्यन्तरविशेषाः रुरवो - मृगाः सरभाः- आटव्या महाकायाः पशवः चमरा - आटव्या गावः कुञ्जरा - दन्तिनः वनलता - अशोकादिलताः पद्मलताः - पद्मिन्यः एतासां भक्त्या - विच्छित्त्या चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापझलताभक्तिचित्रं, तथा स्तम्भोद्वतया - स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोगतवचवेदिकापरिगताभिरामं, 'विज्जाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्समालिणीयमिति विद्या धरन्तीति विद्याधरा - विशिष्टविद्याशक्तिमन्तः तेषां यमलयुगलानि- समानशीलानि द्वन्द्वानि तेषां यन्त्राणि - प्रपञ्चार्वशेषास्तैर्युक्तमिव अर्चिषां - मणिरत्नप्रभाज्वालानां सहस्रैर्मालनीयं - परिचारणीयं किमुक्तं भवति ? – एवं नाम अत्यद्भुतैर्मणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, 'रूवगसहस्सकलितं भिसिमाणं भिब्भिसमाणं चक्रखुल्लोयणलेसं सुहफासं सस्सि -
Jain Educational
For Personal & Private Use Only
jainelibrary.org