________________
O
श्रीराजप्रश्नी नुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्घाघ्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कु-दिव्ययानमलयगिरी-हिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात कोष्ठपुटादीनीत्यु- करणम् या वृत्तिःच्यन्ते तेषां कुट्यमानानाम्-उदुखले खुद्यमानानां भंजिजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयं कोष्ठादिद्रव्या
णामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनां, 'उक्किरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विकिरिज्जमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुज्जमाणाण, वा' परिभोगाय उपयुज्यमानानां, कचित् 'परिभाइज्जमाणाण वा ' इति पाठस्तत्र परिभाइज्जमाणानां पार्श्ववर्तिभ्यो मनाग् दीयमानानां, 'भंडाओ भंडे साहरिजमाणाण वा' इति भाण्डात्-स्थानादेकस्मादन्यद् भाण्डं-भाजनान्तरं संह्रियमाणानां उदाराःस्फारास्ते चामनोज्ञा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहराः मनो हरन्ति-आत्मवशं नयन्तीति । मनोहराः, इतस्ततो विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह-घाणमनोनिर्दृतिकराः, एवंभूताः सर्वतः सर्वासु दिक्षु समन्ततःसामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, कचित् 'अभिनिस्सवन्तीति । पाठः, तत्रापि स एवार्थो नवरमभितः स्रवन्तीति शब्दसंस्कारः, एवमुक्ते शिष्यः पृच्छति-' भवेयारुवे सिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः?, मूरिराह-'नो इणडे समढे ' इत्यादि प्राग्वत् ।
॥३४॥ तेसि णं मणीणं इमेयारूवे फासे पण्णते, से जहानामए आइणेति वा रूए ति वा बूरे इ वा णवणी
JainEducation
For Personal & Private Use Only
garnielibrary.org