________________
श्रीराजमश्नी
चिकुराङ्गरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्य-जात्यसुवर्णस्य यः कषपट्टके निधर्षः स वरकनकनिघर्षः वरपुरु- दिव्ययानमलयगिरी-कापो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किल पीतमेव भवतीति तदुपादानं, अलकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्ण-137
करणम् या वृत्तिः
चम्पकपुष्पं कूष्माण्डीकुसुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं, बीयको
सू०१५ ॥ ३३॥ वृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं, पीताशोकपीतकणवीरपतिबन्धुजविाः प्रतीताः, 'भवेयारूवे ' त्यादि प्राग्वत् । 'तत्थ णमि'
त्यादि, 'तत्र' तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्र्पो वर्णावासः प्रज्ञप्तः, तद्यथा ‘से जहानामए' इत्यादि, स यथानाम 'अङ्कने' रत्नविशेषः, शङ्खचन्द्र (दतकुन्द ) कुमुदोदकोदकरजोदधिधनगोक्षीरपूरक्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपतिः, 'सारइयबलाहगे इति वा' शारदिकः-शरत्कालभावी बलाहको-मेघः, 'धन्तधोयरुप्पपट्टे इ वेति' ध्मातः-अग्निसम्पर्कण निर्मलीकृतो धौतः-भूतिखरण्टितहस्तसंतजनेन अतिनि|शितीकृतो यो रूप्यपट्टो-रजतपत्रकं स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते ध्मातेन-अग्निसंयोगेन यो धौतः-शोधितो रूप्यपट्टः सध्मातधौतरूप्यपट्टः, शालिपिष्टराशिः-शालिक्षोदपुञ्जः, कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुकछेवाडिया इ वे ' ति छेवाडिनामवल्लादिफलिका सा च कचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, पेहुणमिजियाइवेति' पेहुणं-मयूरपिच्छं तन्मध्य. वर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, 'विसं 'पद्मनीकन्दः, 'मृणाल पद्मतन्तु गजदन्तलवङ्गन्दलपुण्डरीकदलश्वेताशो-18|| ३३ ।। कश्वेतकणवीरश्वेतबन्धुजीवाः प्रीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्पति गन्धस्वरूपं प्रतिपादनार्थमाह
Jain Education thatonal
For Personal & Private Use Only
alww.jainelibrary.org