________________
इ वा ' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअशोकादिक्षाविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं । तथा
तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः-ऊरणस्तस्य रुधिरं, वराहः-शूकरस्तस्य रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, | एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः | सन्नीपत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रथमप्राट्कालभावी कीटविशेषः, वालदिवाकरः-प्रथममुद्गच्छन् मूर्यः, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्याद्धे रागो गुजार्द्धरागः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमिति गुजार्द्धग्रहणं, जपाकुसुमकिसुककुसुमपारिजातकुसुमजात्यहिड्डुला लोकमसिद्धाः, शिलाप्रवालं-प्रवालनामा रत्नविशेषः प्रवालाङ्कुरः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्कुरः, स हि तत्प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवे| यारूवे' इत्यादि प्राग्वत् । 'तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा‘से जहानामए' इत्यादि , स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक, चम्पकभेदःसुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिवर्तिता गुटिका, हरितालिका-पृथिवीविकाररूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः,
Jain Education
a
l
For Personal & Private Use Only
lainelibrary.org