________________
दिव्ययानकरणम्
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥३२॥
१५
जीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथ कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति
भवे एयारूवे ' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' जीमूतादिरूपः ?, मूरिराह-'नायमर्थः समर्थः' नायमर्थ उपपन्नो, यदुत एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्णा मणय 'इतो' जीमूतादेरिष्टतरका एव-कृष्णेन वर्णेन अभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केषाश्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञंमनोऽनुकूलं ततः प्रकर्षविवक्षायां तरणत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवेत् , ततः सर्वोत्कर्षप्रतिपादनार्थमाह-' मन आपतरका एव' द्रष्टणां मनांसि आमुवन्ति-आत्मवशतां नयन्तीति मनापास्ततः प्रकर्षविवक्षायां तरणत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति । तथा ' तत्थ णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि स यथा नाम भृङ्ग:-कीटविशेषः पक्ष्मलः 'भृङ्गपत्र' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः, शुकः-कीरः, शुकपिच्छं-शुकस्य पत्रं, चापः-पक्षिविशेषः, 'चापपिच्छं' चापपक्षः, नीली प्रतीता, नीलीभेदो-नीलीच्छेदः, नीलीगुलिका-गुलिकाद्रव्यगुटिका, श्यामाको-धान्यविशेषः, 'उच्चतगो' दन्तरागः, वनराजी प्रतीता, हलधरो-बलदेवस्तस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव तथास्वभावतया, हलधरस्य नीलवस्त्रपरिधानात् , मयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्दू कचित् 'इंदनीले इ वा महानीले इ वा मरगते
.३२
Jain Education
ENTal
For Personal & Private Use Only
Baltinelibrary.org