SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ क्तिचित्रास्तः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तथा सच्छायः सती–शोभना छाया-निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती-शोभना प्रभा-कान्तिर्येषां ते सत्यभाः तैः, 'समरीइएहिं ' इति समरीचिकैः-बहिानिर्गतकिरणजालसहितैः सोद्योतैःबहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैनानाजातीयैः पञ्चवण्णमणिभिरुपशोभितः, तानेव पश्चवर्णानाह'तंजहा-कण्हेहिं' इत्यादि सुगम, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये'णमिति वाक्यालङ्कनरे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ, तेषां 'णमिति पूर्ववत् , अयम्-अनन्तरमुद्दिश्यमान एतद्रुपः-अनन्तरमेव बक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथा नाम 'जीमूत ' इति जीमूतोबलाहकः, स चेह पाट्यारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, अञ्जनं-सौवीराञ्जनं रत्नविशेषो वा, खञ्जनं-दीपमल्लिकामल:, कज्जलं-दीपशिखापतितं, मषी-तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मसीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति वा मसीगुलिया' इति न दृश्यते, 'गवलं' माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं, तत्रैव विशिष्टस्य है कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गनिविडतरसारनिवर्त्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली- भ्रमरपतिः भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आारिष्ठकः-कोमलः काकः, परपुष्टःकोकिलः, गजो गजकलभश्च प्रतीतः, कृष्णसर्पः-कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसर:-कृष्णबकुल: ' आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवरिबन्धु Jain Education For Personal & Private Use Only SNinelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy