________________
दिव्ययान करणम्
मू०१५
श्रीराजप्रश्नी आलिंगपुक्खरे इ वेति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसपामिति तेनोपमा क्रियते, इति- मलयगिरीशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, मृदङ्गो लोकमतीतो मर्दलस्तस्य पुष्कर मृदङ्गपुष्कर या वृत्तिः परिपूर्ण पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं मूर्यमण्डलं च यद्यपि तत्त्व
वृत्त्या उत्तानीकृतार्द्धकपित्थाकारं पीठमासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरभचम्मे इ वेत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति-विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः, महद्भिर्हि कीलकैस्ताडितं पायो मध्ये क्षामं भवति, तथारूफ्ताडासम्भवात् अतः शङ्खग्रहणं, 'विततं ' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवन्नेहि मणीहिं उवसोभिते ' नानाविधाः-जातिभेदानानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावतः प्रतीतः एकस्यावर्तस्य प्रत्यभिमुख आवतः प्रत्यावर्तः श्रेणिः-तथाविधविन्दुजा पङ्किस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषौ लोकात्मत्येतव्यौ वर्द्धमानकं-शरावसम्पुटं मत्स्यकाण्डकमकरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षगवेदिनो लोकाद्वेदितव्यो, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापमलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपपत्रसागरतरङ्गवासन्तीलतापमलताभ
॥३१॥
Jain Education inletailonal
For Personal & Private Use Only
ainelibrary org