________________
Jain Education I
तदपाकृतमवसेयं सर्वत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात् । 'तए णमित्यादि, ततो 'णमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ- रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव | नित्यं सर्वकालं प्रमत्ता नित्यप्रमत्ताः कस्मादिति चेदत आह-' विसयसुहमुच्छियात्ति' विषयसुखेषु मूच्छिता - अध्युपपन्ना विषयसुखमू|च्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः, तेषां ' सुसरघंटारववि उलबोलतुरियचवल| पडिवोहणे ' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु च प्रतिशब्दोच्छलनेन विपुल:- सकलविमानव्यापि - तया विस्तीर्णो बोल:- कोलाहलस्तेन त्वरितं - शीघ्रं चपलं -आकुलं प्रतिबोधने कृते सति 'घोसणकोउहलादिन्नकन्नएगरंगचित्तउवउत्तमाणसाणमिति ' कीदृग् नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कण्ण यैस्ते घोषणकुतूहलदत्तकर्णाः, तथा एकाग्रं - घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह- उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे 'निसंतपसंतंसी 'ति नितरां शान्तो निशान्तः - अत्यन्तमन्दीभूतस्ततः प्रकर्षेण सर्वात्मना शान्तः प्रशान्तः, ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता २ शब्देन उद्घोषयन्नेवमवादीत् - ' हन्त सुणंतु ' इत्यादि, हन्तेति हर्षे, उक्तं च- ' हन्त हर्षेऽनुकम्पायामित्यादि, हर्षश्च स्वामिनाऽऽदिष्टत्वात् श्रीमन्महावीरपाद - वन्दनार्थं च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च, सूर्याभविमानपतेर्वचनं हितसुखार्थ हितार्थ सुखार्थ चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणावहं तथाविधकुशलं सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो यथा गच्छति भोः ! सूर्याभो देवो ! 'जम्बूद्वीपं द्वीपमित्यादि तदेव यावदन्तिके प्रादुर्भवत ॥
For Personal & Private Use Only
ainelibrary.org