________________
मूर्याभागमनाय संमार्जनादि मू०१०
श्रीराजप्रश्नी हि यद्वेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलैक इदं त्वब्भ्रवादलकविकुर्वणार्थं द्वितीयमत उक्तं-द्वितीयमपि वारं वैक्रिय- मलयगिरी समुद्घातेन समवहन्यन्ते (घ्नन्ति), समवहत्य चाभ्रवादलकानि विकुर्वन्ति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि या वृत्तिः मेघा इत्यर्थः, अपो बिभ्रतीति अब्भ्राणि-मेघाः, अभ्राणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थः,
| अब्भ्रे वादलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, 'से जहानामए भइगदारगे सिया' इत्यादि ॥ २३ ॥
पूर्ववत् 'निउणसिप्पोवगए एगं महमित्यादि, स यथानामको भृतिकदारक एवं महान्तं 'दकवारकं वा' मृत्तिकामयभाजनविशेष दगकुंभगं वा' ति दकघर्ट, दकस्थालकं वा-कंसादिमयमुदकभृतं भाजनं दककलसं वा-उदकभृतं भृङ्गारं 'आवरिसिज्जा' इति आवर्षेत् आ-समन्तात्सिश्चेत् , 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जुयाइति 'त्ति प्रकर्षेण विद्युतं विदधति, 'पुप्फबद्दलए विउव्वंति ' पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवादलिकानि-पुष्पवर्षकान् मेघान् विकुवन्तीति भावः, 'एगं महं पुष्फछज्जियं वा ' एकां महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैभृता छाधिका पुष्पछाधिका तां वा पटलकानि-प्रतीतानि, 'कयग्गाहगहियकरयलपब्भद्रवि(प्प)मुक्केणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं| |स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि(प)मुक्तं सत्यभ्रष्ट करतलप्रभ्रष्टवि(प्र)मुक्तं,प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, | तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धाति । जयेन विजयेन वर्धापयन्ति, जयतु देवेत्येवं वर्धापयन्तीत्यर्थः, तत्र जयःजापरैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेपामसहमानानामभिभवोत्पादः, वर्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिको प्रत्यापयन्ति,
आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः॥
॥२३॥
JainEducation intern
For Personal & Private Use Only
www.jainelibrary.org