SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ -10-20:30905000 | समर्थः लडुनप्लवनजवनप्रमईनसमर्थः, कचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो वाग्मी कुशल:--सम्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः यथा भवति एवं शिल्पं-क्रियासु कौशलं उप| गतः-प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शिलाकाहस्तकं-सरित्पादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, 'दंडसंपुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी-सन्मार्जनी दण्डसम्पुच्छनी तां वा 'वेणुसिलागिगं वा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनित्ता वेणुशलाकिकी-वेणुशलाकामयी सम्मार्जनी तां वा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा 'सभा वा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा 'प्रपा वा ' पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामोनगरान्नातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तं 'उज्जाणं वति' ऊर्द्ध विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्चवराद्युपगमासम्भवात् , निरन्तरं न त्वपान्तरालमोचनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासु दिक्षु विदिक्ष समन्ततः-सामस्त्येन सम्पमार्जयेत् , “एवमेवेत्यादि, सुगमं यावत् 'खिप्पामेव पच्चुवसमंती'त्यादि, एकान्ते तृणकाष्ठाद्यप नीय क्षिप्रमेव-शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः 'उपशाम्यन्ति , संवर्तकवायुविकुर्वण्णानिवहार्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचपि वेउब्वियसमुग्धाएणं समोहणति । संवर्तकवातविकुर्वणार्थ Jain Education in For Personal & Private Use Only mainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy