________________
श्रीराजप्रश्नी मृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवं आरम्भस्त
मूर्याभागममलयगिरी-| तोऽर्थवद्विशेषणं, अन्ये तु व्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थ- नाय संमाया वृत्तिःपत्रमिति, ततः स भूतिकदारकस्तरुण इति, किमुक्तं भवति ?-अभिनवो विशिष्टवण्णादिगुणोपेतश्चेति, बलं-सामर्थ्यं तद् यस्यास्तीति
जनादि. बलवान् , तथा युग-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति ?-कालोपद्रवोऽपि ॥२२॥
सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं,
अप्पायके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहस्तो यस्य | स स्थिराग्रहस्तः, 'दढपाणिपायपिटुतरोरुपरिणए' इति दृढानि-अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम् अतिशयेन निचितौ निबिडतर|चयमापन्नौ वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेद्वगदुघणमुद्वियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च मुष्टया समाहत्य २ ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रारतेषामिव गात्रं यस्य स | चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, ' उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तदलं च उरस्यबलं तत्समन्वा| गतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलयुगलवाहू । तलौ-तालवृक्षौ तयोर्यमलयुगलं| समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंघणपवणजइणपमहणसमत्थे।
.30॥२२॥ इति लड़ने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमवति गमने जवने-अतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे
dan Educontano
For Personal & Private Use Only
www.janelibrary.org