SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-एवं देवो तहत्ति आणाए' इति हे देव ! 'एवं यथैव यूयमादिशत तथैवाज्ञया भवदादेशेन कुर्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात् , यथा 'अज्जो' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरच्छिम उत्तरपूर्वदिग्भागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात् , अपकामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह-'संखेजाणि जोयणाणि दंडं निस्सरन्ति' दण्ड | इव दण्डः-ऊोध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराबहिः सख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां कर्केतनादीनां १ वज्राणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणं ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजताना १२| जातरूपाणां १३ अङ्कगनां १४ स्फटिकानां १५ रिष्ठानां १६ योग्यान् यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथामूक्ष्मान -सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथावादरान् पुद्गलान् परिशातयन्ति यथामूक्ष्मानाददते आदाय च इप्सितानि उत्तरवैक्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति ?, उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थ, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो |वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिदोषः, तत एवमुत्तरवैक्रियाणि Jain Education a l For Personal & Private Use Only ENJainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy