SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीराजमश्री मलयगिरीया वृत्तिः 11 11 स्थितः, एतदेव व्यक्तीकुर्वन्नाह - 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसपत् विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धृ दय:, हर्षवशादेव 'वियसियवरकमलनएणे' विकसिते वरकमलवत् नयने यस्य स तथा हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकड - गतुडियकेउरमउडकुंडले 'ति प्रचलितानि वराणि कटकानि - कलाचिकाभरणानि त्रुटितानि - बाहुरक्षकाः केउराणि - बाह्राभरणविशेषरूपाणि मुकुटो - मौलिभूषणं कुण्डले - कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचितं - शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बते इति प्रलम्बः - पदकस्तं प्रलम्बमानं - आभरणविशेषं घोलन्ति च भूषणानि धरन्तीति प्रलम्बलम्बमानघोलद्धूपणधरः, सूत्रे च प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात्, हर्षवशादेव ' ससंभ्रमं ' संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका | प्रवृत्तिः सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्ससम्भ्रमं क्रियाविशेषणमेतत् त्वरितं - शीघ्रं चपलं - सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं सुरवरो देववरो यावत्करणात् 'सीहासणाओ अब्भुट्ठेइ अन्युट्टित्ता पायपीढाओ पच्चोरुहति २ त्ता पाउयाओ ओमुयइ | ओमुयइत्ता तित्थयराभिमुहे सत्तट्ठपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणं अंचेइ [ उत्पाटयति ] दाहिणं जाणुं धरणितलंसि निड्डु तिखुत्तो मुद्धाणं धरणितलंसि निमेइ निमित्ता (निवेसेइ २ ता ) ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडियतुडियर्थभियभुयाओ | साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - नमोऽत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जात्र संपाविउकामस्स, वंदामि ण भगवंतं तत्थ - गयं इह गए ' इति परिग्रहः, पश्यति मां स भगवान् तत्र गत इह गतमिति कृत्वा वन्दते - स्तौति नमस्यति - कायेन मनसा च Jain Education International For Personal & Private Use Only 8383838383838383070. वीरवन्द नाय जिगमिषा सू० ६ ॥ १६ ॥ www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy