SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं इह गते ] पासइ मे भगवं तत्थ गते इहगतंतिकडु वंदति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुवाभिमुहं सण्णिसण्णे। (सू०५)तएणं 'तस्स सुरियाभस्स इमे एतारूवे अब्भत्थिते चिंतिते मणोगते संकप्पे समुपन्जित्था _ 'तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमण' श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगःसमग्रैश्वर्यादिलक्षणः, उक्तं च-“ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" भगोऽस्यास्तीति भगवान् भगवन्तं 'मूर वीर विक्रान्तौ वीरयति-कपायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्या बहिराम्रशालबने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरितृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्टा च-'हट्टतुट्ठमाणंदिए' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः-सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टु नदि समृद्धाविति वचनात् , यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलने कर्मधारयः, 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमन Jain Education in For Personal & Private Use Only nelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy