________________
स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषामसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् मूर्याभे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः दासकल्पास्तेऽतिभूयांसःआस्थानमण्डल्यामपि चानियतसङ्ख्याका इति तेषां सामान्यत उपादानमाह-'अन्नेहिं बहूहिं मूरियाभविमाणवासीहिं देवेहिं देवीहि य सद्धिं संपरिबुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाऽऽहये त्यादि, महता रवेणेति योगः 'आहया' इति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा अहतानि-अव्याहतानि, अक्षतानीति भावः, नाट्यगीतवादितानि च तन्त्री वीणा तला-हस्ततालाः कंसिकाःतुटितानि-शेषतूर्याणि, तथा घनो-धनसदृशो ध्वनिसाधर्म्यत्वात् यो मृदङ्गो-मईलः पटुना-दक्षपुरुषेण प्रवादितः, तत एतेषां पदानां द्वन्दः, तेषां यो रवस्तेन, दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई' इति भोगार्हा ये भोगाः-शब्दादयस्तान् , सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्ग व्यभिचार्यपी'ति, भुञ्जानो 'विहरति' आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उपलभ्यमानं 'केवलकल्पं ईषदपरिसमाप्तं केवलं केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भावः, जम्बा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्तीर्णेनावधिना, तस्य हि मूर्याभस्य देवस्यावधिरधः प्रथमां पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदि तं ज्ञेयविषयमाभोगं न करोति तदा न किश्चिदपि तेन जानाति पश्यति वेत्यावेदितं ॥
तत्थ समणं भगवं महावीरं जंबूद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए
Jan Eden He
For Personal & Private Use Only
Alainelibrary.org