________________
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः
र्याभेण | वीरदर्शनं
॥१४॥
निकसहस्राण तैश्चतुर्भिः, प्राकृतत्वाच मूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं च, 'चतमभिरग्रमहिषीभिः" इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः, कथम्भूताभिरित्याह-'सपरिवाराभिः' परिवारः सह यास ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहस्रं २ देवीनां, तथा तिहाभिः पर्षद्भिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत् , तया सहापोलोचितं स्वल्पमपि प्रयोजनं न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया |च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तहिं अणिएहि' इति अनीकानि-सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीक रथानीकं पदात्यनीकं वृषभानीकं गन्धर्वानीकं नाव्यानीक, तत्राद्यानि पश्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाट्यान के पुनरुपभोगाय, तैः सप्तभिरनीकैः, अनीकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्तहिं अणियाहिवईहिं,' तथा 'षोडशभिरात्मरक्षदेवसहस्र रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि त्यण् प्रत्ययः, ते च शिरस्त्राणकल्पाः, | यथा हि शिरस्त्राणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिपरहरणाः समन्ततः पृष्ठतः पार्श्वतोऽग्रतश्वावस्थायिनो विमानाधिपतेः मूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च, तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा उर्द्धस्थिता अवतियानाः
॥१४॥
Jain Education Hel
For Personal & Private Use Only
Lainelibrary.org