SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥ १३॥ विवक्षितार्थसम्यसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । 'आगासफालियामएण' आकाशस्फटिक-यदाकाशवत् अतिस्वच्छं स्फटिक राजादिपर्यतन्मयेन 'धम्मज्झएणं'ति धर्मचक्रवर्तित्वमूचकेन केतुना महेन्द्रध्वजेनेत्यर्थः, तथा 'पुव्वाणुपुचि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणे पासना त्यर्थः चरन्–सञ्चरन् , एतदेवाह-'गामाणुगामं दूइज्जमाणे' इति ग्रामश्वानुग्रामश्च-विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुग्राम, तत् द्रवन्गच्छन् , एकस्मादनन्तरं ग्राममनुल्लङ्घयन् इत्यर्थः, अनेनाप्रतिवद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं मु०४ विहरमाणे' सुर्खसुखेन-शरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरन्-अवतिष्ठमानो 'जेणेवेति प्राकृतत्वात्सप्तम्यर्थे । तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनिषण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन् आस्ते॥ततः पपन्निर्गमो वाच्यः, स चैवं-'तए णं आमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइकखइ एवं भासेइ एवं पण्णवेइ एवं परूबेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदण-: नमसणपडिपुच्छणपज्जुवासणयाए ?, तं सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स | अस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (सुहाए खमाए निस्सेसाए) आणुगामियत्ताए भविस्सइ, तए णं आमलकप्पाए ॥१३॥ Jain Education I n al For Personal & Private Use Only wirinjalinelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy