________________
तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैदृत्तिता उपचारोपेतत्वम्--अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतरागत्वं-उत्पादिता श्रोतृजने स्वविषयवहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत | उर्दू त्वर्थाश्रयाः, तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः, शिष्टत्वं वक्तः शिष्टत्वमूचनात् , असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात् , अपद्रुतान्योत्तरत्वं-परदूषणाविषयता, हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणं, देशकालाव्यतीतत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वं-सम्बन्धाधिकारपरिमितता, अन्योऽन्यप्रगृहीतत्वं-पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं-यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्धमधुरत्वं-बुभुक्षितस्य घृतगुडादिवत्परमसुखकारिता, अपरमर्मवेधित्वं-परमर्मानुद्घट्टनशीलता, अर्थधर्माभ्यासानपेतत्वं-अर्थधर्माप्रतिबद्धता, उदारत्वं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघत्वंउक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वंश्रोतृणां स्वविषये उत्पादितं-जनितमविच्छिन्नं कौतूहलं कौतुकं येन तत्तथा तद्भावस्तत्त्वं, श्रोतृषु स्वविषयाद्भुतविस्मयकारितेति भावः, अमृतत्वमनतिविलम्बित्वं च प्रतीतं, विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तुभ्रान्तमनस्कता विक्षेपो वक्तरेवाभिधेयार्थ प्रत्यनासक्तताकिलिकिश्चितं-रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैवियुक्तं यत्तत्तथा तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं-सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं-शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं-विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वम्-ओजस्विता, अपरिखेदित्वम्-अनायाससम्बवात् , अव्यवच्छेदित्वं
Jain Education
a
l
For Personal & Private Use Only
w
lanelibrary.org