________________
Jain Education
| मदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी - कार्तिकीपौर्णमासी तस्यां रजनिकरः- चंद्रमास्तद्वद्विमलं - निर्मलं प्रतिपूर्णम् - अन्यूनातिरिक्तमानं सौम्यम् - अरौद्राकारं वदनं यस्याः सा तथा, शृङ्गारस्य-रस| विशेषस्यागारमिवागारं, अथवा शृङ्गारो - मण्डन भूषणाटोपस्तत्प्रधान आकारः - आकृतिर्यस्याः सा तथा, चारु वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गता ये गतहसितभणितचेष्टितविलासललितसंलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यदगुप्ततया तद्गृहस्यैवान्तर्गमनं न तु बहिः स्वेच्छाचारितया सङ्गतं हसितं - यत्कपोलविकाशमात्रसूचितं न त्वट्टट्टहासादि 'हासेयं कपोलकहकहिय' मिति वचनात् सङ्गतं भणितं यत्समागते प्रयोजने नर्मभणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं यत्कुचजघनाद्यवयवाच्छादनपरतयोपवेशनशयनोत्थानादि सङ्गतो विलासः - स्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरै स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः - स्थानासनगमनादिरूपश्रेष्टाविशेषः, उक्तं च- “ स्थानासनगमनानां, हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥ १ ॥” | अन्ये त्वाहुः - विलासो नेत्रजो विकारः, तथा चोक्तं- “ हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलाखो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥” “ ते णं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चउतीसबुद्धवयणाइसेससंपत्ते पणतीस| सच्चवयणातिसेस संपत्ते आगासगएणं चक्केणं आगासगतेणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिमएणं सपायपीढेण सीहासणेण पुरतो धम्मज्झएणं पगढिज्जमानेणं चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं सम्परिवुडे पुव्वाणुपुवि चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वणसंडे जेणेव
For Personal & Private Use Only
ainelibrary.org