SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादानि एतैराकीर्णो व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजातरूपं सुवर्णं रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्पयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छर्दितं तथाविधविशिष्टोपकाराकारि-3 तया विसृष्टमुकुरिटकादिषु प्रचुर भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् । राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवानां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततः स्वार्थिकप्रत्ययविधानात् प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्ठागाराणि | यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि-धान्यानां कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठामारायुधगृहः, तथा बलं शारीरिक मानसिकं च यस्यास्ति सबलवान् , दुर्बलपत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्यं प्रशासत् विहरति-अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रव कारिणश्चरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा मानजाम्लानिमापादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकं, तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तन्निहतशत्रु, तथा मलिताः-तद्गतसैन्यत्रासापादनतो मानम्लानिमापादिताः शत्रवो यत्र तत् मलितशत्रु, तथा स्वातन्त्र्यच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धृताः शत्रवा यत्र तत् Jain Education Inte For Personal & Private Use Only V elibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy