________________
श्रीराजप्रश्नी, मलयगिरीया वृत्तिः
श्वेतराजा
सना
सू०४
जातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्षवान्, प्रत्यनीकोपद्रवासम्भवात्, तदसम्भवश्च प्रत्यनीकानामेवाभावात् तथा चाह - 'मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य मूर्द्धभिः- दिपर्युपामस्तकैरभिषिक्तः - पूजितो मूर्धाभिषिक्तः, तथा मातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया (द्रव्य) प्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वाद्, तथा सेवागतानामपूर्वापूर्व्वनृपाणां सीमां-मर्यादां करोति यथा एवं वर्त्ति॥ १० ॥ तव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति - पालयति न तु विलुम्पतीति सीमन्धरः, तथा क्षेमं वशवर्त्तिनां उपद्रवाभावं करोति क्षेमङ्करः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येन्द्रः, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह- 'जनपदपाल:' जनपदं पालयतीति जनपदपालः, ततो भवति | जनपदस्य पितेव तथा जनपदस्य शान्तिकारितया पुरोहित इव जनपदपुरोहितः, तथा सेतुः - मार्गस्तं करोतीति सेतुकरः, मार्ग| देशक इति भावः, केतुः - चिह्नं तत्करोतीति केतुकरः, अद्भुतसंविधानकारीति भावः, तथा नरेषु मनुष्येषु मध्ये प्रवरो - नरप्रवरः, | स च सामान्यमनुष्यापेक्षयापि स्यादत आह- 'पुरिसवरे' पुरुषेषु - पुरुषाभिमानेषु मध्ये वरः - प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्रतिमल्लतया पुरुषसिंहः, तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः, पुरुष आसीविष इव दोषविना| शनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसह|मानान् प्रतीति पुरुषवरगन्धहस्ती ततो भवति पुरुषवरः, तथा आढ्यः - समृद्धो दीप्तः शरीरत्वचा देदीप्यमानत्वात् दृप्तो वा हप्तारिमानमर्दनशीलत्वात् अत एव वित्तो- जगत्प्रतीतो, यदुक्तमाढ्य इति तदेव सावस्तरमुपदर्शयति - 'विच्छिण्णे 'त्यादि, विस्तीर्णानि -
Jain Education Int
1873870783838287853850
For Personal & Private Use Only
॥ १० ॥
Sunelibrary.org