________________
इविमलवरचिंधपट्टागहियाउहपहरणा तिणयाणि तिसंधियाई वयरामयाई कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिटुंति ॥ (सू० ४५)॥
ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं आयक्खा' इत्यादि, ते आत्मरक्षाः सन्नदबद्धवर्मितकवचा उत्पीडितशरासनपट्टिकाः पिनद्धौवेया-अवेयकाभरणा: आविद्धविमलवरचिह्नपट्टा गृहीताऽऽयुधप्रहरणास्त्रिनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धषि अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केपि 'नीलपाणिणो' इति नील: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां ते चापपाणयः चारु:प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणया, एवं दण्डपाणयः खगपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदंडखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः,तथा गुप्ता-पराप्रवेश्या पालि:-सेतुर्येषां ते गुप्तपालिकाः,तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालिर्येषांते युक्तपालिकाः, समयत:-आचारतः
KON
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org