SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पुस्तक रल |वाचनं | सू०४३ जिनप्रतिमा पूजादि | सू०४४ श्रीराजमनास्तेभ्यः, तथा लोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो चीजाधानोद्भेदपोषणकरण क्षेमं च तत्तदुपद्रवाद्य- मरुयगिरी-1 भावापादनं, तथा लोकरय-प्राणिलोकस्य पश्चास्तिकायात्मकस्य वा दिता-हितोपदेशेन सम्यमरूपणया वा लोकहितास्तेया वृत्तिः भ्यः, तथा लोकस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्ट॥१०९॥ मतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तकरणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादा चत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च का प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव रूपं तत्त्वदर्शनायोगात, तद् ददतीति चक्षुर्दास्तेभ्यः, तथा मा-विशिष्टगुणस्थानावाप्तिमगुण: स्वरसवाही क्षयोपशमविशेषरतं ददतीति मार्गदाः, तथा शरणं-संसारकान्तारगतानामतिप्रवल रागादिपीडितानां समाश्वासनस्थानकल्प तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनमणीतधर्ममाप्तिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा ? इत्याद-धर्म | दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाः-स्वामिनस्तदशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धमसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्त हेतुत्वाव चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वत्तुिं शीलं येषां ते तथा तेभ्यः, तथा अप्रतिहते-अप्रतिरखलिते क्षायिकत्वात् वरे-प्रधाने ज्ञानदर्शने धरन्तीति . II Jain Education For Personal & Private Use Only w elbrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy