________________
अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्-अपगतं छद्म येभ्यस्ते व्यावृत्तच्छमानस्तेभ्यः, तथा रागद्वेषकपायेन्द्रियपरीपहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं वीर्णवन्तोऽन्याँश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्वा बुद्धा अन्याँश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्याँश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकमायोगिकचलनक्रियाऽपोहात् अरुजं शरीरमनसोरभावेनाधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात अक्षयं विनाशकारणाभावात अव्याबा, केनापि वाधयितुमशक्यममूर्तत्वात् न पुनरावृत्तिर्यस्मात् तदपुनरावृत्ति सिध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य तद सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थान-व्यवहारतः सिद्धिक्षेत्र निश्चयतो यथावस्थितं स्वस्वरूपं स्थानस्थानिनोरभेदोपचारात् तत् सिद्धिगतिनामधेय स्थानं तत्समाप्तेभ्यः,एवं प्रणिपातदण्डकं पठित्वा ततो 'वंदइ नमसइ' इति वन्दते वा प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्मणिधानादियोगेनेत्येके, अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशयंढेरभ्युत्थाननमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊय सूत्रं सुगमं केवलं भृयान् विधिविषयो वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनार्थ विधिमात्रमुपदर्यते-तदनन्तरं लोमहस्तकेन देवच्छन्दक प्रमार्जयति पानीयधारया अभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरंगोशीर्षचन्दनेन पञ्चाङ्गलितलं ददाति, ततः पुष्पारो
Jain Education Inte
For Personal & Private Use Only
Tww.jainelibrary.org