SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कतुरुकधृपगन्धोत्तमानुविद्धा माकृतत्वात् पदव्यत्ययः धूपवत्ति विनिर्मुश्चन्तं वैड्यमयं धृपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दवा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्लाष्टानि पदानि पश्चादपमृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतो 'अट्टसयविसुद्धगंथजुत्तेहि 'न्ति विशुद्धो-निमलो लक्षणदोपरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः अर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वाम जानु अञ्चति इत्यादिना विधिना प्रणाम कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नमोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठीविभत्तीए भन्नइ चउत्यो' इति प्राकृतलक्षणवशात् , ते चाईन्तो नामादिरूपा अपि सन्ति ततो भावाईत्यतिपत्त्यर्थमाह-'भगवद्भय भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदिः-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग् वरबोधिमाप्त्या बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कमंगज़ान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासकादिना कर्ममलाभा| वतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तया लोको-भव्यसत्त्वशीकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy