________________
PASC.30
श्रीराजपश्नी मलयगिरी- या वृत्तिः ॥९॥
श्वेतराजा| दिपर्युपा
सना
प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रतिरूपकदर्शनीयः, 'आदर्शतलोपमः आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलोपमः, सुष्ठ मनांसि रमयतीति सुरम्यः 'कृद्धहुल मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितंसंस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः-शोभनं रूपम्-आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह–'मुत्ताजालखइयंतकम्मे' मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगरूयचूरनवनीयतूलफासे' आजिनक-चर्ममयं वस्त्रं रूतं-प्रतीतं चूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं तूल अर्कतूलं तेषामिव कोमलतया स्पर्शो यस्य स आजिनकरूतचूरनवनीततूलस्पर्शः, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥
सेओ राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ (सू०४) भ 'सेओ राया धारिणी देवी जाव समोसरणं समत्त'मिति तस्यां आमलकल्पायां नगर्या श्वेतो नाम राजा, तस्य समस्तान्तः
पुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त'मिति यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्तं, तच्चैवं-'तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा होत्या, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चतविसुद्धायकुलवंसप्पमूए निरंतरं रायलकखणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्व)पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसआसविसे पुरिसवरपोंडरीए पुरिसवरगंधहस्थी अड़े दित्ते वित्ते विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्चे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छड्डिय
॥९
॥
Bain Education
For Personal & Private Use Only
nelibrary.org