SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ इत्यादि विशेषणजातं पूर्ववत् , 'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत् अशोकवरपादपस्याधस्तात्, 'एत्थ णमिति अशोकवरपादपस्य यदधो अत्र 'ण'मिति पूर्ववत् एको महान् पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिखंधो समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् ईषद्-मनाक् सम्यग् लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायामसुप्पमाणे इति, विष्कम्भेनायामेन च शोभनम्-औचित्यानतिवर्ति प्रमाणं यस्य स विष्कम्भायामसुप्रमाणः, कृष्णः, कृष्णत्वमेव निरूप-10 यति-'अंजणघणकुवलयहलहरकोसेज्जसरिसो' अञ्जनको-वनस्पतिविशेषः घनो मेघः कुवलयं-नीलोत्पलं हलधरकौशेयं-बलदेववस्त्रं तैः सदृशः-समानवर्णः, 'आगासकेसकजलकक्केयणइंदनीलअयसिकुसुमप्पगासे' आकाशं धृलीमेघादिविरहितं, केशाःशिरसिज़ाः, कज्जलं प्रतीतं, कर्केतनेन्द्रनीलौ-मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो-दीप्तिर्यस्य स तथा, 'भिंगजणभंगभेयरिद्वगनीलगुलियगवलाइरेगे' इति भृङ्गः-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं सौवीराञ्जनं तस्य भङ्गेन-विच्छित्त्या भेदः-छेदोऽञ्जनभङ्गभेदो रिष्ठको-रत्नविशेषः नीलगुटिकाः-प्रतीताः, गवलं-माहिषं शृङ्गं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा, 'भमरनिकुरम्बभूए' इति अत्र भूतशब्द औपम्यवाची, यथाऽयं लाटदेशः सुरलोकभूतः, सुरलोकोपम इत्यर्थः, ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः, 'जंबूफलअसणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवन्ने' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनं असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणिः प्रतीतः, आसासको-बीयकाभिधानो वृक्षः, नयन-8 कीको नेत्रमध्यताराः, असि-खड्गं तेषामिव वर्णो यस्य स तथा, स्निग्धो न तु रूक्षः घनो-निविडो न तु कोष्ठक इव मध्यशुषिरः |'अज्झुसिरे' इति श्लक्ष्णशुपिररहितः, 'रूवगपडिरूवगदरिसणिजे' इति रूपकाणां यानि तत्र सङ्क्रान्तानि (प्रतिरूपकाणि) Jain Education For Personal & Private Use Only R ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy