SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः सिद्धायतन जिनप्रतिमा वर्णनम् मू०३९ तिसेकाः अङ्कमयान्यक्षीणि अन्तलौंहिताक्षप्रतिरेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो भ्रवः कनकमयाः कपोला: कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मृर्द्धनाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशं सकोरेण्टमाल्यादिधवलमातपत्रं गृहीत्वा सलील धरन्ती तिष्ठति, तथा तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयो द्वे चामरधारप्रतिमे प्रज्ञप्ते, ते च 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभा-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात, 'सुहमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा 'संखंककुंगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलील बीजयन्त्यस्तिष्ठन्ति, ताश्च 'सबरयणामईओ अच्छाओ' इत्यादि प्राग्वत , 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारपतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्दके तासां जिनप्रतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानोमष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृपभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि, ॥९५॥ dan Education Intel For Personal & Private Use Only nelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy