________________
प्रज्ञप्तम्, एक योजनशतमायामतः पश्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमूच्चैस्त्वेनेत्यादि सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ?-यथा सुधर्माया सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपा तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् , 'तस्स ण' मित्यादि, तस्य सिद्धायत नस्यान्तर्बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सहमणिमयी' त्यादि मागत् । 'तीसे ण'मित्यादि, तस्याश्च मणिपीटिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडश योजनान्यूर्ध्वमुच्चैस्त्वेन 'सहरयणामए' इत्यादि प्राग्वत् , तत्र च देवच्छन्दके 'अष्टशतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनु शतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि इस्ततलपादतलानि अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नपतिसेका नखाः कनकमया जवाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयो रिष्ठमय्यो रोमराजयः तपनीयमयाः चुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवृक्षाः शिलाप्रवालमयाविद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह्वा तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षम
वर्णावासोभावः, सनि
रत्नमतिसेका
Jain Education
a
l
For Personal & Private Use Only
A
w
.jainelibrary.org