________________
ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्वं विनिर्गता शाखा येषां ते रजतमुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासा, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा वैड्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिज्जपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-चैडूयमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयरमीलनेन कर्मधारयः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवःमनोज्ञाः सुकुमारा:-सुकुमारस्पर्शाः प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथममुद्भिद्यमाना अङ्कारास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताः शाला:-शाखा येषां ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, सती-शोभना प्रभा-कान्तिर्येषां ते सत्यभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योताः, अधिक नयनमनोनितिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । एते च चैत्यक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजपनसतालतमालप्रियालमिय१पारापतराजवृक्षनन्दिा सर्वतः समन्तात संपरिक्षिप्ता, ते च तिलका
HAA
Jain Education in
For Personal & Private Use Only
minutjainelibrary.org