________________
| मण्डपस्तूप पतिमाचैत्य | वृक्षेन्द्रध्वज जिनसक्यो
श्रीराजप्रश्नी यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं, 'तेसि ण'मलयगिरी-IAN
मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावदहव: था वृत्तिः ।
सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसिण' मित्यादि, तेषां च चैत्यक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि बाहल्यतः 'सहरयणामईओ' इत्यादि पाग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येक महेन्द्रध्वजाः प्रज्ञप्ताः, तेच महेन्द्रध्वजाःषष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोश-अ
गव्यूतमुधेिन-उण्डत्वेन अर्द्धक्रोश विष्कम्भतः 'वइरामयवहलठ्ठसंठियसुसिलिट्ठपरिघट्टमहसुपइडिया' इति वज्रमया-बज्ररत्नमया तथा वृत्त-वर्तुलं लष्ठं-मनोज्ञं संस्थित-संस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यया भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव मुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशाणया पाषाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात् , ततो विशेषणसमासः, 'अणेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत् , 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सबै वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनान्युद्वेधेन-उण्डत्वेन, तासां च नन्दापुष्करिणीनां 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत् , ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ बनखण्डेन परिक्षिप्ताः, तासां च नन्दा
॥११॥
dain Education
For Personal & Private Use Only
w
wjainelibrary.org