________________
श्रीराजपशी मलयगिरा-1 या वृत्तिः
| मण्डपस्तुप Xपतिमाचैत्य
वृक्षेन्द्रध्वज * जिनसक्यी
नि मू०३६
॥९
॥
मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात 'तेसिं चेइयथूभाणं उप्पि बहवे किण्हचामरज्झया जाव सुकिल्लचामरज्झया अच्छा सण्डा रुप्पपट्टवाइरदंडा जमलजामलगंधी सुरूवा पासाइया जाव पडिरूवा, तेसिं चेइयथूभाणं उप्पि बइवे छत्ताइच्छत्ता पडाया घंटाजुगला उप्पलहत्थगा जाब सयसहस्सपत्तहत्थगा सवरयणामया जाव पडिरूवा' इति, एतच्च समस्तं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ 'चउदिसिं'ति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि वाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि प्राग्वत् , तासां च मणिपीठिकानामुपरि एकैकमतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ'इति पर्यडूकासनसन्निषण्णाः, स्तुपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभाव्येन सम्यग्निवेशिता स्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा इति, 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं २ मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सबमणिमइओ' इत्यादि प्राग्वत् , तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनाईयोजनमुद्वेधेन-उण्डत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवाध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चैस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां च चैत्यक्षाणामयमेतद्रपो वर्णावासः प्रज्ञप्तस्तद्यथा-'बइरामयमूला रययसुपइट्ठियविडिमा' बज्राणि-वज्रमयानि मूलानि येषां
dain Education
For Personal & Private Use Only
www.jainelibrary.org