SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदाथ भगवन्तं भूयः पृच्छति-'पउमवरवेइया ण' मित्यादि, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियचिरं-कियन्तं कालं यावद्भवति ?, एवंरूपा हि कि| यन्तं कालमवतिष्ठति इति ?, भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदेव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात् , तथा न कदाचिन्न भविष्यति, किंतु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्पत्यस्तित्वं पतिपादयति-'भुवि च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वा दिवत् ध्रुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोचटनसंभवादक्षया, न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, अक्षयत्वादेव अव्यया-अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यभावात् , अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तरादहिः समुद्रवत् , एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत , से ण' मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, सच वनखण्डो देशोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनपरिक्षेपपरिमाणो, वनखण्डवर्णकः 'किण्हे किण्होभासे इत्यादिरूपः समस्तोऽपि प्राग्वत् यावद्विहरन्ति, 'तस्स ण' मित्यादि, तस्य-उपकारिकालयनस्य 'चउदिसं'ति चतुर्दिशिचतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रजातानि, Jain Education Inte For Personal & Private Use Only A inelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy