SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः-दुमविशेषाः 'वणलयाहि ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिक्पमृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवाओ इत्यत्र यावच्छब्दकरणात् 'निचं कुसुमियाओ निचं मालइयाओ निच्चं लवइयाओ निच्चं थवइयाओ निचं गुच्छियाओ निच्चं गुम्मियाओ निच्चं जमलियाओ निच्चं जुयलियाओ निच्चं विणमियाओ निचं पणमियाओ सुविभत्तपडिमंजरि-1 | वडिंसगधरीओ निचं कुसुमियमालइयथवइयलवइयगुम्मियजमलियजुयलियगुच्छियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ संपिडियदरियभमरमहुयरिपहकरपरिल्लंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुतगुंजतदेसभागाओ पासाइयाओ दरिसणिज्जाओ, | अभिरूवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वद् व्याख्येयं, तस्य 'णमिति प्राग्वत् , अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नदियावत्ते' इति नन्यावर्त्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त्त इति शब्दसंस्कारः, वर्द्धमानकं-शरावसम्पुटं भद्रासनं कलशो मत्स्ययुग्मं दर्पणः, एतानि चाष्टावपि, मङ्गलकानि सर्वरत्नमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण ( तन्तु ) निष्पन्नपटवद् लण्हानि-ममृणानि घुण्टितपटवद् 'घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठाईति मृष्टानीव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् , निर्मलानि-आगन्तुकमलाभावात् , निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि Jain Education For Personal & Private Use Only K nelbrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy