________________
अशोकवृक्ष
वणनं
मू०३
श्रीराजप्रश्नी अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिःपत्रच्छन्नाः, मलयगिरी- तथा पत्रैश्च पुष्पैश्च अवच्छन्नपरिच्छन्नाः-अत्यन्तमाच्छादिताः,तथा नीरोगकाः-रोगवर्जिता अकण्टककाः-कण्टकरहिताः, न तेषां प्रत्यासन्ना या वृत्तिः बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा
प्रत्यासन्नैर्नानाविधैः-नानाप्रकारैर्गुच्छैः-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः नानाप्रकारैः शुभैः-मण्डनभूतैः केतुभिः-ध्वजैबेहुला-व्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालघरगा' वाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका-ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवशितरम्यजालगृहकाः, तथा पिंडिमा-पिण्डिता सती निहारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिर्झरिमा तां सुगन्धिसुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थः, गन्धघाणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये गन्धघ्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघ्राणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभाः-प्रधाना इति सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला
बहवो येषां ते तथा, 'अणेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधाः-क्रीडारथाः सङ्ग्राअमरथाश्च, शकटानि प्रतीतानि, यानानि सामान्यतः शेषाणि वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशो-
भितानि जम्पानानि शिविकाः कुटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटा
॥७॥
Jain Education
na
For Personal & Private Use Only
P
anelibrary.org