SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ वन्त इत्यर्थः, नित्यं 'गुलइया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्यं 'गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमलंनाम समानजातीययोयुग्मं तत् सञ्जातमेषामिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीययोर्द्वन्द्वं तदेषां सञ्जातमिति युगलिताः, तथा नित्यं सर्वकालं फलभरेण विनताः-ईपन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः, एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्पतं केषाश्चिदृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियेत्यादि, किमुक्तं भवति केचित्कुसुमिताद्येकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अत एव कुसुमियमालइयमउलियेत्यादिपदेषु कर्मधारयः, तथा शुकबहिणमदनशालिकाकोकिलाकोरककोभवभिङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम्-इतस्ततो गमनं यच्च शब्दोन्नतिकं-उन्नतशब्दक मधुरस्वरं च नादित-लपितं येषु ते तथा, अत एव सुरम्याः -सुष्ठ रमणीयाः, अत्र शुकाः-कीराः, बर्हिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिला:-पिकाः, चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा सम्पिण्डिताःएकत्र पिण्डीभूताः दृप्ताः- मदोन्मत्ततया दपाध्माता भ्रमरमधुकरीणां पहकराः-सङ्घाताः 'पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितदृप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किञ्जल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि Jain Education M ail For Personal & Private Use Only Emainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy