________________
श्रीराजमश्री मलयगिरी
या वृत्तिः
॥ ६॥
Jain Education 1
इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याह- अवातीनपत्रा वातीनानि - वातोपहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति न प्रवलेन खरपरुषेण वातेन तेषां पत्राणि भूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह - 'अणईइपत्ता' न विद्यते इतिः - गड्डरिकादिरूपा येषां तान्यतीतीनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्रत्वाच्चाच्छिद्रपत्राः, 'निजुयजरढपंडुपत्ता' इति निर्द्धतानि-अपनीतानि जरठानि पाण्डुपत्राणि येभ्यस्ते निर्द्धतजरठपाण्डुपत्राः, किमुक्तं | भवति ?- यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्द्धय भूमौ पातितानि भूमेरपि च प्रायो निर्द्धय निर्द्धयान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा' इति नवेन - प्रत्यग्रेण हरितेन - नीलेन भासमानेन स्निग्धत्वेन वा दीप्य - |मानेन पत्रभारेण - दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा - अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्र भारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरिति भावः, नवतरुणपत्रपल्लवैस्तथा कोमलैः - मनोज्ञैरुज्ज्वलैः - शुद्धैश्वलद्भिःईषत्कम्पमानैः किशलयैः - अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रबालैः - पलवाङ्कुरैः शोभितानि वराङ्कुराणि - वराङ्कुरोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लव कोमलोज्ज्वलचलत्किशलय सुकुमालमवालशोभितवराङ्कुराग्रशिखराः, | इहाङ्कुरमवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं सर्वकालं, षट्स्वपि ऋतुषु इत्यर्थः, 'कुसुमिताः' कुसुमानिपुष्पाणि सञ्जातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निच्चं मालइया' ( मउलिया ) इति नित्यं - सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निच्चं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तवकिताः स्तवकभार -
For Personal & Private Use Only
अशोकवृक्षवर्णनं
मू० ३
॥ ६॥
ainelibrary.org