SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 1707070.50.50.50.7030303030307 फला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्म - जालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धाणं मुंचंता सुहसेउकेतुबहुला अणेगसगडजाणजुग्गगिल्लि - | थिल्लिसीयसंद्माणि पडिमोयगा पासाइया दरिसणिज्जा अभिरुवा पडिरुवा' इति परिग्रहः, अस्य व्याख्या - इह मूलानि | सुप्रतीतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः खन्धः - धुडं त्वक्-छल्ली शाला:| शाखा: प्रवाल:- पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्नि वा मतुप्प्रत्ययः, 'अणुपुव्वसुजायरुचि - लवट्टभावपरिणया' इति आनुपूर्व्या - मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वीसुजाता रुचिराः - स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ? – एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्त्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजातरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वी सुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः, व्यामीयन्ते परिच्छिद्यन्ते रज्ज्वाद्यनेनेति व्यामः, बहुलवचनात् 'करणे कचिदिति डप्रत्ययः, अनेकैर्नरव्यामैः - पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनो - निविडो विपुला - विस्तीर्णो वृक्ष:| स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ? - | न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखा प्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिंद्रं नोपलक्ष्यते इति, तथा चाह - 'अविरलपत्ता' Jain Education al For Personal & Private Use Only ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy