________________
स्वात, प्राकृते हि लिङ्गमनियतं, णमिति वाक्यालङ्कारे, हेमजालादीनि जालानि, कचित् दामा इति पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि हयसंघाादिसूत्रं लनासूत्रं च प्राग्वत् । सम्पति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-' से केणटेणं भंते !' इत्यादि, सेशब्दोऽयशब्दार्थे, केनार्थेन-देन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति, एवमुक्ते भगवानाह-गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकामु-उपवेशनयोग्यमत्वारणरूपासु वेदिकाबाहासु-वेदिकापार्येषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु-स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, मूचीषु-फलकसंबन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीतितात्पर्यार्थः, 'मूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भित्वा मध्ये प्रविशति तत्पत्यासन्नो देशः सूचीमुख तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये फलकपदेशास्तेऽप्युपचारात् सूचिफलकानि तेषु सूचीनामधउपरिवर्त्तमानेषु, तथा 'मुईपुटतरेसु' इति द्वे मूच्यौ सूचीपुटं तदन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषास्तेषु, बहूनि उत्पलानिगर्दभकानि पद्मानि-मूर्यविकासोनि कुमुदानि-चन्द्रविकासीनि नलिनानि-ईपद्रक्तानि पद्मानि सुभगानि-पद्मविशेषरूपाणि सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-पत्रशतकलितानि सहस्रपत्राणि-पत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच्च पृथगुपाते, एतानि सर्वरत्नमयानि
Jain Education in
For Personal & Private Use Only
ww.jainelibrary.org