________________
नानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि, जालगृहकाणि-गवाक्षयुक्तानि गृहकाणि, कुमुमगृहकाणि-कुमुमप्र करोपचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि-गीतनृत्ययोग्यानि गृहकाणि आदर्शग्रहकाणि-आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह- सबरयणामया' इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसि ण' मित्यादि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहकादिपरिग्रहा, 'बहूनि इंसासनानि' इत्यादि माग्वत् । 'तेसि ण' मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेपस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनसतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्ली तन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसता सालतेत्यभिधीयते नागलतापया मण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-'सबरयणामया' इत्यादि प्राग्वत्। 'तेसि ण 'मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु जावशब्दात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका इंसासनवत् संस्थिता हंसासनसंस्थिता यावदप्येकका दिक्सावस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठिया अपेगइया भद्दासणसंठिया अप्पेगइया
1040-400-400100-4200-44004604
For Personal & Private Use Only
Jan Education in 19
Nw.jainelibrary.org