SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सूर्याभवि श्रीराजप्रश्नी मलयगिरी या वृतिः मानवर्णन o ॥७९॥ क्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कयंभूता ? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । तेसुण मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि इंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोश्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि-उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि येषामधो भागे पीठिकावन्धः पक्ष्यासनानि येषामधो भागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामधो भागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा-'हंसे कोंचे गरुडे उण्णय रणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि वारसमे ॥२॥ इति,तानि सर्वाग्यपि कथंभूतानीत्यत आह-'सबरयणामयाई'त्यादि पाग्वत् । 'तेसि ण'मित्यादि, तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलि:-वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, मेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया मन्जनकं कुर्वन्ति, 'प्रसाधनगृहकाणि ' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भगृहाकाराणि 'मोहणघराइन्ति मोहन-मैथुनसेवा 'रमियं मोहणरयाई' इति नाममालावचनात् तत्पधानानि गृहकाणि मोहनगृहकाणि, वासभव ॥७९॥ dain Education For Personal & Private Use Only Pariainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy