________________
लपङ्क्तीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहा, प्रत्येक चतुदिशि चखारि एकैकस्यां दिशि एकैकस्य भावात त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया बंगा इत्यादि पावत् । 'तेसिणं तेषां त्रिसोपानपतिरूपकाणां प्रत्येकं तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भावनीयो यावत् बहवः सहस्रपत्रहस्तका इति, 'तासि ण 'मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् विलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पातपर्वता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयंति, नियइपचया' इति नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, कचित् 'निययपवया' इति पाठः, तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगई पत्वया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपा:-स्फाटिकाः मंडपाः, उक्तं च जीवाभिगममूलटीकायां-" दगमण्डपा:-स्फाठिका मण्डपा” इति, एवं दकमञ्चकाः दकमालका दकमासादाः, एते च दकमण्डपादयः केचित् 'उसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुडा खुडत्ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाच, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र २ प्रदेशे देव
dain Education in
For Personal & Private Use Only
T
wjainelibrary.org