SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सूर्याभवि श्रीराजप्रश्नी मलयगिरी या वृत्तिः मानवर्णनं मू०३० ॥ ७८॥ लाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताःसंछन्नपत्रबिसमृणाला:, इह बिसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनाला:, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरैः-केसरप्रधानैः फुल्ल:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्या-अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्यमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात् , उदाहरणं चात्र-'घणपडिहत्यं गयणं सराइ नवसलिल उद्धमायाई । अइरेइयं मह उण चिंताए मण तुहं विरहे ॥१॥' इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्यभ्रमन्मत्स्यकच्छपाः, तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकाविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सर पङ्क्तिपर्यन्ताः 'प्रत्येक प्रत्येकं प्रति प्रत्येकमत्राभिमुख्य प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात्मत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिढिाथै बाढमेकका:-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासांता वारुणोदकाः, अप्येकका क्षीरमिव उदकं यासां ताः क्षोरोदकाः, अप्येकका घृतमिव उदकं यासां ता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासांताक्षोदोदकाः, अप्येककाः स्वाभाविकेन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वन् । 'तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्वि ॥७ ॥ Jain Education For Personal & Private Use Only L.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy