________________
क्तयः तथा येषु सरःसु पत्त्या व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सर-पक्तिः ता बहव्यः सर सरम्पङ्क्तयः, तथा विलानीव विलानि-कूपास्तेषां पङ्क्तयो बिलपतयः, एताश्च सर्वा अपि कथंभृता इत्याह-अच्छाः-स्फटिकवहाहिर्निर्मलप्रदेशाः इलक्ष्णा:-लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः इलक्ष्णदलनिष्पन्नफ्टवत् , तथा रजतमयं-रूप्यमयं कूलं यासांता रजतमयकूलाः, तथा समं न गर्वाभावात् विषमं तीरं तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पापाणा यासां ता वज्रमयपापाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयं तल यासां तास्तपनीयतलाः, तथा "सुवण्णसुज्झरययवालुयाउ' इति सुवर्ण-पीतकान्ति हेम सुभं-रूप्यविशेषः रजतं-प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुभरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि-तटसमोपवर्तिनः अत्युन्नतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटार, 'सुओयारसुउत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावतारा: तथा मुखेन उत्तारो-जलमध्याहहिनिर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थसुबडाउ' इति नानामणिभि:-नानाप्रकारैर्मणिभिस्तीर्थानि मुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृत शैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतु कोणाः, एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुकोणत्वसंभवात् न शेषाणां, तथा आनुपू]ण-क्रमेण नीचैस्तराभावरूपेण सुष्ठु-अतिशयेन यो जातवा-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्ताचं शीतलं जलं यासु ता आनुपूर्व्यमुनातवप्रगम्भीरशीतलजला:, 'संछन्नपत्तभिसमुणा
Jain Educationlix
For Personal & Private Use Only
wali.jainelibrary.org