________________
मलयगिरीया वृत्ति
॥७७॥
व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-" पुणं रत्तं च अलंकिय च वत्तं तहेव अविघुटुं । महुरं समं सललियं अहम सूर्याभदि. | गुगा होति गेयस्स ॥१॥” तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रक्तं, अन्योऽन्यस्व- मानवर्णने रविशेषकरणेन यदलङ्कृतमिव गीयते तदलङ्कृतं, अक्षरस्वरस्फुटकरणतो व्यक्त, विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्ट, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत् , तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन-ललनेन वर्त्तत इति सललितं, यदिवा यत् श्रोत्रन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितं । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-'रत्तं तिठाणकरणं सुद्ध' तत् 'कुहरगुंजंतवं सततीतलताललयमहसुसंपउत्तं महुरं समं सल लिय मणोहरं मउयरिभियपयसंचारं सुरई सुनतिं वरचारुरुवं दिवं नह सज्जं गेयं पगीयाण' मिति यथा प्राक नास्थविधी व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवई' प्रगीतानांगातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति-स्याव-कथंचिद्भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः ?, एवमुक्ते भगवानाह-गौतम! स्यादेवंभृतः शब्दः ।। सू० ३१) _ 'तेसि णं वणसंडाण' मित्यादि, तेषां 'णमिति वाक्यालङ्कारे वनखाडानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्वयः 'खुडाखुड़ियाओ' इति क्षुल्लिकावल्लिका लघवो लघवो इत्यर्थः, वाप्यश्चतुरस्राः पुक्खरियो वृत्ताकारा अथवा पुष्कराणि विद्यते यास ताः पुष्करिण्यो दीर्घिका-ऋज्व्यो नद्यः वक्रा नद्यो गुआलिकाः, बहूनि केवल केवलानि पुष्पावकीर्णकानि सरांसि एकपडूस्तया व्यवस्थितानि सरपङ्क्तिः सललितास्ता बहव्यः सरम्पङ्.
Jain Education in
For Personal & Private Use Only
Nw.jalnelibrary.org