SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीराजपनी अष्टाधिकं शतं चक्रध्वजाना-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजाना- सूर्याभविमलयगिरीमपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुवावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण-सह पूर्वेः अपरैश्च वर्तते इति । या वृत्तिः सपूर्वापरं-सङ्ख्यानं तेन मूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशीत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृद्भिः, 'तसि ण' मित्यादि, तेषां द्वाराणां संबन्धीनि प्रत्येकं पञ्चषष्टिः२ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भूमानां | मू० २९ ॥७२॥ भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यानि त्रयस्त्रिंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे । प्रत्येकं प्रत्येकं सूर्याभदेवयोग्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भीमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितं । 'तेसि ण'मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिद्धेहिं' इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् वज्रः २ वैडूर्यैः ३ लोहिताक्षैः ४ मसारगल्लैः ५ हंसगौंः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अडै १० अञ्जनः११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरिति परिग्रहः १५ षोडशै रिष्ठैः १६ 'तेसि णमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्दू केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुत्वावरेणं मूरिया विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायामिति सुगमं 'सूरियाभस्स ण' ॥ ७२ ॥ मित्यादि सूर्याभस्य विमानस्य चतुर्दिश-चतस्रो दिशः समाहृताश्चतुर्दिक तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पश्च योजनशतानि dalin Educationa l For Personal & Private Use Only A njanelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy