________________
सूर्याभवि
श्रीराजमश्नी मळयगिरीया वृत्तिः
॥ ७१ ॥
णानां पुरतो वे वे छत्रे रूप्यमये प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनि-वनरत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख्या वरकाञ्चनशलाका–वरकाञ्चनमय्यः शलाका येषु तानि, तथा 'दद्दरमलयसुगंधिसबोउयसुरभिसीयलछाया' इति दईरः-चीवरावनद्धं-कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पका वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृतिः सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभःचन्द्रकान्तो वज्र वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु ते तथा एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' इति मूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'शंखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ' इति 'शङ' प्रतीतः अङ्को-रत्नविशेषः 'कुंदेति कुन्दपुष्पं दकरज-उदककणाः अमृतमथितफेणपुञ्जः-क्षीरोदजलमथनसमुत्थः फेनपुञ्जस्तेपामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राग्वत् । तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गको सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकाकारण"तैलसमुद्गको सुगन्धितैलाधारौं" एवं कोष्ठादिसमुद्का अपि वाच्याः, अत्र सङ्ग्रहणिगाथा-तिल्ले कोटु समुग्गे पत्ते चोए य तगर एला |य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥'सबरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा'इत्यादि प्राग्वत् ।
Bain Educati
o
n
For Personal & Private Use Only
Vidw.janelibrary.org