SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 58787873870787088878780000 रजतमयेषु बहवो वातकरका - जलशून्याः करका प्रज्ञप्ताः, तद्यथा - 'किण्हसुत्ते 'त्यादि गवच्छं- आच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) कृष्णसूत्रैः कृष्णसूत्रमयैर्गवच्छिकै (तै) रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलमूत्रसिकगगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोर - णानां पुरतो द्वौ द्वौ चित्रौ - आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्तौ ' से जहानामए' इत्यादि, स यथा नाम राज्ञश्वतुरन्तचक्रवर्त्तिनः - चतुर्षु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु - पृथिवीपर्यन्तेषु चक्रेण वर्त्तितुं शीलं यस्य तस्यैव चित्रः - आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियनाणामणिफलियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः 'फलिहपडलपञ्च्चोयडे' इति स्फटिकपटलावच्छादित: 'साए पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्त्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण व्याचष्टे - उद्योतयति तापयति प्रभासयति 'एवमेवेत्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममूलटीकाकारेण -“हयकण्ठौ - हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या" इति, तथा चाह - 'सवरयणामया' इति, | सर्वे रत्नमया - रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेयौं प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थक लोमहस्तकचङ्गर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसि णं तारेणाण' मित्यादि तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि णमित्यादि, तेषां तोर प्राग्वत्, Jain Education nal For Personal & Private Use Only 3858787858787 jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy