________________
मीराजपश्नी मलयगिरी- या वृत्तिः
॥६९॥॥
रत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभितानि नानामणिदामालङ्क- | सूर्याभवितानि तथा अन्तर्बहिश्च श्लक्ष्णा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रस्तारो येषु ते तपनीयवालुकामस्तटाः ।। मानवर्णन सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकानामन्तभूमिवर्णनमुपर्युल्लोकवर्णनं सिंहासनवर्णनमुपरि विजयदृष्यवर्णनं वज्राङ्कशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयो तसिंणमित्यादि,तेषां द्वाराणां प्रत्येक
मृ०२८ मुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां पाडेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेष भावनीयं, 'तेसि णं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येक दे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत् , 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् , 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसङ्घाटी, सङ्घाटशब्दो युग्मवाची यथा साधुसङाट इत्यत्र, ततो देवे हययुग्मे इत्यर्थः, एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभसङ्गाटा अपि वाच्याः, एते च कथम्भूताः? इत्याह- 'सवरयणामया अच्छा सण्हा' इत्यादि प्राग्वत् , यथा चामीषा हयादीनामष्टानां सङ्काटा उक्तास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः-समानलिङ्ग-युग्मरूपा पुष्पावकीर्णकाश्च एकदिग्व्यवस्थिताः श्रेणिः-पङ्किरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिय सा वीथिः स्त्रीपुरुषयुग्मं मिथुनकं 'तेसिणामित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे ॥६९॥ वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह-'णिचं कुसुमियाओ' इत्यादि|
Jan Education into
For Personal & Private Use Only
www.jainelibrary.org