________________
प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवामिगममूलटीकायां-"प्रासादावतंसको-पासादविशेषा'विति, ते चप्रासादावतसका अर्घतृतीयानि योजनशतानि ऊर्ध्वम् उच्चैस्त्वेन पञ्चविंशं योजनशतं विष्कम्भेन, 'अभुग्गयमूसियपहसियाविव' अभ्युद्गता-आमिमख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षुप्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमाणिरत्नभक्तिचित्राः, 'वाउद्धयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीना पार्श्वकर्णिका उच्यन्ते तत्पधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयवर्जिता छत्रातिछत्राणि-उपर्युपरि स्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः, तुङ्गा-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमणुलिहतसिहरा' इति गगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलयन्ति शिखराणि येषां ते तथा, जालानिजालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपःप्राकृतत्वात् , तथा पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पञ्जरात-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपिप्रासादावतंसका इति भावः, तथा माणिकनकानि-माणकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलक
dain Education India
For Personal & Private Use Only
ainelibrary.org